स्कन्ध 10, अध्याय 5: श्रीविष्णुना देवेभ्यो वरप्रदानम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १०.५ पञ्चमोऽध्यायः ।
श्रीविष्णुना देवेभ्यो वरप्रदानम् ।
सूत उवाच ।
ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् ।
विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ १॥