स्कन्ध 10, अध्याय 4: रुद्रप्रार्थनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १०.४ चतुर्थोऽध्यायः ।
रुद्रप्रार्थनम् ।
सूत उवाच ।
ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।
पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १॥
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १०.४ चतुर्थोऽध्यायः ।
रुद्रप्रार्थनम् ।
सूत उवाच ।
ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।
पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १॥
उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः ।
देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ २॥
देववा ऊचुः ।
जय देव गणाध्यक्ष उमालालितपङ्कज ।
अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ ३॥
महामायाविलसितस्थानाय परमात्मने ।
वृषाङ्कायामरेशाय कैलासस्थितिशालिने ॥ ४॥
अहिर्बुध्न्याय मान्याय मनवे मानदायिने ।
अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ ५॥
गणनाथाय देवाय गिरिशाय नमोऽस्तु ते ।
महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ ६॥
विष्णुहृत्कञ्जवासाय महायोगरताय च ।
योगगम्याय योगाय योगिनां पतये नमः ॥ ७॥
योगीशाय नमस्तुभ्यं योगानां फलदायिने ।
दीनदानपरायापि दयासागरमूर्तये ॥ ८॥
आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये ।
वृषध्वजाय कालाय कालकालाय ते नमः ॥ ९॥
सूत उवाच ।
एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः ।
प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ १०॥
श्रीभगवानुवाच ।
प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः ।
मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ ११॥
देवा ऊचुः ।
सर्वदेवेश गिरिश शशिमौलिविराजित ।
आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ॥ १२॥
पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः ।
भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ १३॥
तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव ।
भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ १४॥
नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् ।
अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ १५॥
दुःखनाशकरो देव प्रसीद गिरिजापते ।
श्रीशिव उवाच ।
नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः ॥ १६॥
इममेवं वदिष्यामो भगवन्तं रमाधवम् ।
सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ १७॥
गोविन्दो भगवान्विष्णुः सर्वकारणकारणः ।
तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ १८॥
इत्येवमाकर्ण्य गिरीशभाषितं देवाश्च सेन्द्राः सपयोजसम्भवाः ।
रुद्रं पुरस्कृत्य च वेपमाना वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ १९॥