Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १०.३ तृतीयोऽध्यायः ।

देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।

सूत उवाच ।

एवं समुपदिश्यायं देवर्षिः परमः स्वराट् ।

जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 2

गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् ।

नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 3

कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् ।

नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 4

(धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्) धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः ।

एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 5

प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी ।

मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 6

सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः ।

तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 7

तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् ।

एवं मार्गे निरुद्धे तु मया दिनकरस्य च ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 8

भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् ।

एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 9

महोन्नतैः श‍ृङ्गवरैः सर्वं व्याप्य व्यवस्थितः ।

कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 10

एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी ।

प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 11

कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ ।

प्रकाशते स्म विमलं नभो भानुकरैः शुभैः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 12

विकासं नलिनी भेजे मीलनं च कुमुद्वती ।

स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 13

हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् ।

प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 14

एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् ।

ज्वलन्तीं चिरकालीनविरहादिव कामिनीम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 15

भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च ।

याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 16

न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् ।

अनूरुरुवाच ।

भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 17

स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् ।

सूत उवाच ।

अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 18

अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः ।

प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 19

निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् ।

राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 20

स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली ।

एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 21

नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत ।

चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 22

संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः ।

यदा निरुद्धः सविता गिरिणा स्पर्धया तदा ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 23

नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् ।

एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 24

निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे ।

प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 10, अध्याय 3: देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्, Verse 25

मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः ।

हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् ।

देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः ॥ २५॥