Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां २.७ सप्तमोऽध्यायः ।

पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।

सूत उवाच ।

पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता ।

पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 2

अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा ।

सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ २॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 3

तस्यां जातो महावीरो निहतोऽसौ रणाजिरे ।

अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 4

अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी ।

कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 5

जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् ।

द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 6

परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः ।

तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 7

निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः ।

तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 8

गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् ।

सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 9

विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् ।

युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 10

धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः ।

पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 11

यथा श‍ृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः ।

वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 12

मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे ।

दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 13

भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः ।

ध्वाङ्क्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 14

एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् ।

आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 15

अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः ।

धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 16

अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः ।

पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 17

वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् ।

न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 18

ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् ।

गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 19

एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः ।

धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 20

समाहूय निजान्मर्वानुवाच पृथिवीपतिः ।

धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 21

तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः ।

सङ्ग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 22

धनं देयं महाभाग दुर्योधनहिताय किम् ।

अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 23

तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् ।

द्रौपदी च महाभागा समानीता दुरात्मना ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 24

विराटभवने वासः प्रसादात्तव सुव्रत ।

दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 25

देविता त्वं न चेज्ज्येष्ठः प्रभवेत्सङ्क्षयः कथम् ।

सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 26

बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः ।

कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 27

गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ ।

मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 28

दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा ।

असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 29

अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे ।

दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 2, अध्याय 7: पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्, Verse 30

कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप ।

न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ ३०॥