स्कन्ध 10, अध्याय 1: मनुकृतं देवीस्तवनम्, Verse 1
१० श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः १०.१ प्रथमोऽध्यायः ।
मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
नारायण धराधार सर्वपालनकारण ।
भवतोदीरितं देवीचरितं पापनाशनम् ॥ १॥
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
१० श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः १०.१ प्रथमोऽध्यायः ।
मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
नारायण धराधार सर्वपालनकारण ।
भवतोदीरितं देवीचरितं पापनाशनम् ॥ १॥
मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी ।
यदाकारेण कुरुते प्रादुर्भावं महेश्वरी ॥ २॥
तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् ।
यथा च येन येनेह पूजिता संस्तुतापि हि ॥ ३॥
मनोरथान्पूरयति भक्तानां भक्तवत्सला ।
तन्नः शुभूषमाणानां देवीचरितमुत्तमम् ॥ ४॥
वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् ।
श्रीनारायण उवाच ।
आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥ ५॥
भक्तानां भक्तिजननं महासम्पत्तिकारकम् ।
जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः ॥ ६॥
आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः ।
स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ ७॥
मनुं स्वायम्भुवं नाम जनयामास मानसात् ।
स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥ ८॥
शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् ।
स मनुः क्षीरसिन्धोश्च तीरे परमपावने ॥ ९॥
देवीमाराधयामास महाभाग्यफलप्रदाम् ।
मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः ॥ १०॥
उपासते स्म तां देवीं वाग्भवं स जपन् रहः ।
निराहारो जितश्वासो नियमव्रतकर्शितः ॥ ११॥
एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः ।
शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥ १२॥
भेजे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि ।
तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी ॥ १३॥
उवाच वचनं दिव्यं वरं वरय भूमिप ।
तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः ॥ १४॥
वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् ।
मनुरुवाच ।
जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १५॥
मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले ।
त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ १६॥
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।
शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ १७॥
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।
यादसामधिपः पाशी पालनं मादृशामपि ॥ १८॥
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।
हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ १९॥
त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः ।
अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ २०॥
तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे ।
वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ २१॥
तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि ।
ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ २२॥
तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे ।
जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ २३॥
ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि ।
पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ २४॥