स्कन्ध 9, अध्याय 50: देव्या आवरणपूजाविधिवर्णनम्, Verse 1
९.५० पञ्चाशत्तमोऽध्यायः ।
देव्या आवरणपूजाविधिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १॥
Containing 102 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.५० पञ्चाशत्तमोऽध्यायः ।
देव्या आवरणपूजाविधिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १॥
अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् ।
राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम् ॥ २॥
महिमा वर्णितोऽतीव भवता परयोर्द्वयोः ।
श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर ॥ ३॥
ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् ।
ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना ॥ ४॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् ।
यन्न कस्यापि चाख्यातं सारात्सारं परात्परम् ॥ ५॥
श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् ।
मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे ॥ ६॥
प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् ।
जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा ॥ ७॥
तदधीनं जगत्सर्वं विराडादिचराचरम् ।
यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः ॥ ८॥
ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् ।
तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः ॥ ९॥
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १०॥
षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ ११॥
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ १२॥
जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ १३॥
विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ १४॥
अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः ।
ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ १५॥
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना ।
वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ १६॥
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः ।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ १७॥
राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता ।
अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ॥ १८॥
छन्दश्च देवी गायत्री देवतात्र च राधिका ।
तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १९॥
मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च ।
अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ २०॥
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया ।
श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ २१॥
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् ।
बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ २२॥
कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् ।
क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ २३॥
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् ।
सदा द्वादशवर्षीयां रत्नभूषणभूषिताम् ॥ २४॥
शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् ।
मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ २५॥
सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् ।
वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ २६॥
रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् ।
कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ २७॥
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा ।
यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः ॥ २८॥
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् ।
मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २९॥
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् ।
मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ ३०॥