स्कन्ध 9, अध्याय 49: सुरभ्युपाख्यानवर्णनम्, Verse 1
९.४९ एकोनपञ्चाशत्तमोऽध्यायः ।
सुरभ्युपाख्यानवर्णनम् ।
नारद उवाच ।
का वा सा सुरभिर्देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः ॥ १॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४९ एकोनपञ्चाशत्तमोऽध्यायः ।
सुरभ्युपाख्यानवर्णनम् ।
नारद उवाच ।
का वा सा सुरभिर्देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः ॥ १॥
श्रीनारायणाय उवाच ।
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।
गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा ॥ २॥
सर्वादिसृष्टेश्चरितं कथयामि निशामय ।
बभूव तेन तज्जन्म पुरा वृन्दावने वने ॥ ३॥
एकदा राधिकानाथो राधया सह कौतुकी ।
गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ ४॥
सहसा तत्र रहसि विजहार स कौतुकात् ।
बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च ॥ ५॥
ससृजे सुरभिं देवीं लीलया वामपार्श्वतः ।
वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः ॥ ६॥
दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च ।
क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ॥ ७॥
तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् ।
सरो बभूव पयसां भाण्डविस्रंसनेन च ॥ ८॥
दीर्घं च विस्तृतं चैव परितः शतयोजनम् ।
गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः ॥ ९॥
गोपिकानां च राधायाः क्रीडावापी बभूव सा ।
रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया ॥ १०॥
बभूव कामधेनूनां सहसा लक्षकोटयः ।
यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः ॥ ११॥
तासां पुत्राश्च बहवः सम्बभूवुरसङ्ख्यकाः ।
कथिता च गवां सृष्टिस्तया च पूरितं जगत् ॥ १२॥
पूजां चकार भगवान् सुरभ्याश्च पुरा मुने ।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ १३॥
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः ।
बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम् ॥ १४॥
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् ।
वेदोक्तं च महाभाग निबोध कथयामि ते ॥ १५॥
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥ १६॥
ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः ।
ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा ॥ १७॥
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥ १८॥
पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् ।
यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे ॥ १९॥
घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि ।
शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः ॥ २०॥
दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः ।
यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि ॥ २१॥
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।
क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः ॥ २२॥
ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा ।
तदाज्ञया च सुरभिं तुष्टाव पाकशासनः ॥ २३॥
पुरन्दर उवाच ।
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ २४॥
नमो राधाप्रियायै च पद्मांशायै नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ २५॥
कल्पवृक्षस्वरूपायै सर्वेषां सततं परे ।
क्षीरदायै धनदायै बुद्धिदायै नमो नमः ॥ २६॥
शुभायै च सुभद्रायै गोप्रदायै नमो नमः ।
यशोदायै कीर्तिदायै धर्मदायै नमो नमः ॥ २७॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ २८॥
महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ २९॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ३०॥