स्कन्ध 9, अध्याय 48: मनसोपाख्यानवर्णनम्, Verse 1
९.४८ अष्टचत्वारिंशोऽध्यायः ।
मनसोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव ।
ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १॥
Containing 146 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४८ अष्टचत्वारिंशोऽध्यायः ।
मनसोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव ।
ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २॥
महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् ।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ ४॥
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः ।
मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ ५॥
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७॥
ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः ।
आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ ८॥
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् ।
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम् ॥ ९॥
पूजाविधानं कथितं तदाख्यानं निशामय ।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १०॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।
गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम् ॥ ११॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः ।
वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ १२॥
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा ।
तपसा मनसा तेन बभूव मनसा च सा ॥ १३॥
कुमारी सा च सम्भूता जगाम शङ्करालयम् ।
भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ १४॥
दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता ।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६॥
लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः ।
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ १७॥
पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।
प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ १८॥
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ १९॥
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ॥ २०॥
पूजां च कारयामास चकार च स्वयं हरिः ।
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ २१॥
वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः ।
प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ २२॥
द्वितीये शङ्करेणैव कश्यपेन सुरेण च ।
मुनिना मनुना चैव नागेन मानवादिभिः ॥ २३॥
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ।
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ २४॥
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ २५॥
सुष्वाप देव्या जघने वटमूले च पुष्करे ।
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ २६॥
जगामास्तं दिनकरः सायङ्काल उपस्थिते ।
सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ २७॥
धर्मलोपभयेनैव चकारालोचनं सती ।
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ २८॥
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ २९॥
स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।
वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ ३०॥