स्कन्ध 9, अध्याय 47: मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम्, Verse 1
९.४७ सप्तचत्वारिंशोऽध्यायः ।
मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४७ सप्तचत्वारिंशोऽध्यायः ।
मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १॥
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २॥
दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला ।
मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥ ३॥
पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः ।
मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥ ४॥
मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका ॥ ५॥
मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ ६॥
प्रथमे पूजिता सा च शङ्करेण परात्परा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७॥
ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे ।
आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ ८॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।
सा च मङ्गलचण्डी या बभूव रूपभेदतः ॥ ९॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।
भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ १०॥
युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः ।
मायात्मना च हरिणा सहायेन वृषध्वज ॥ ११॥
जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३॥
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४॥
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा ॥ १५॥
पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् ।
पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ १६॥
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।
छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ १७॥
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ।
मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ १८॥
सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः ।
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ १९॥
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥ २०॥
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः ।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ २१॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ २२॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २३॥
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २४॥
संसारसागरे घोरे ज्योतीरूपां सदा भजे ।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ २५॥
महादेव उवाच ।
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥ २६॥
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।
शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ॥ २७॥
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।
सतां मङ्गदे देवि सर्वेषां मङ्गलालये ॥ २८॥
पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ २९॥
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ३०॥