स्कन्ध 9, अध्याय 46: षष्ठ्युपाख्यानवर्णनम्, Verse 1
९.४६ षट्चत्वारिंशोऽध्यायः ।
षष्ठ्युपाख्यानवर्णनम् ।
नारद उवाच ।
अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् ।
अन्यासां चरितं ब्रह्मन् वद वेदविदांवर ॥ १॥
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४६ षट्चत्वारिंशोऽध्यायः ।
षष्ठ्युपाख्यानवर्णनम् ।
नारद उवाच ।
अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् ।
अन्यासां चरितं ब्रह्मन् वद वेदविदांवर ॥ १॥
श्रीनारायण उवाच ।
सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् ।
पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि ॥ २॥
नारद उवाच ।
षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला ।
उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥ ३॥
श्रीनारायण उवाच ।
षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता ।
बालकानामधिष्ठात्री विष्णुमाया च बालदा ॥ ४॥
मातृकासु च विख्याता देवसेनाभिधा च या ।
प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता ॥ ५॥
आयुःप्रदा च बालानां धात्री रक्षणकारिणी ।
सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी ॥ ६॥
तस्याः पूजाविधिं ब्रह्मनितिहासमिदं शृणु ।
यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम् ॥ ७॥
राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः ।
योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा ॥ ८॥
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह ।
सुचिरं कृतदारश्च न लेभे तनयं मुने ॥ ९॥
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ।
मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ १०॥
भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह ।
दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ ११॥
ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् ।
सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥ १२॥
तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः ।
मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा ॥ १३॥
श्मशानं च ययौ राजा गहीत्वा बालकं मुने ।
रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ १४॥
नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ।
ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ १५॥
एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः ।
शुद्धस्फटिकसङ्काशं मणिराजविनिर्मितम् ॥ १६॥
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ।
नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम् ॥ १७॥
ददर्श तत्र देवीं च कमनीयां मनोहराम् ।
श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम् ॥ १८॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।
कृपामयीं योगसिद्धां भक्तानुग्रहकातराम् ॥ १९॥
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् ।
चकार पूजनं तस्या विहाय बालकं भुवि ॥ २०॥
पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् ।
तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ २१॥
राजोवाच ।
का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते ।
कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ २२॥
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका ।
उवाच देवसेना सा देवानां रणकारिणी ॥ २३॥
देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा ।
जयं ददौ सा तेभ्यश्च देवसेना च तेन सा ॥ २४॥
श्रीदेवसेनोवाच ।
ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी ।
सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप ॥ २५॥
मातृकासु च विख्याता स्कन्दभार्या च सुव्रता ।
विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा ॥ २६॥
अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च ।
धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा ॥ २७॥
सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च ।
सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ २८॥
कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा ।
कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः ॥ २९॥
कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः ।
कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा ॥ ३०॥