स्कन्ध 9, अध्याय 45: दक्षिणोपाख्यानवर्णनम्, Verse 1
९.४५ पञ्चचत्वारिंशोऽध्यायः ।
दक्षिणोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।
वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ १॥
Containing 99 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४५ पञ्चचत्वारिंशोऽध्यायः ।
दक्षिणोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।
वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ १॥
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।
राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥ २॥
अतीव सुन्दरी रामा सुभगा सुदती सती ।
विद्यावती गुणवती चातिरूपवती सती ॥ ३॥
कलावती कोमलाङ्गी कान्ता कमललोचना ।
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता ॥ ४॥
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ।
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥ ५॥
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी ।
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥ ६॥
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।
उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा ॥ ७॥
सम्बभूवानम्रमुखो भयेन मधुसूदनः ।
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम् ॥ ८॥
कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ।
कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम् ॥ ९॥
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् ।
विरोधभीतो भगवानन्तर्धानं चकार सः ॥ १०॥
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् ।
विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया ॥ ११॥
विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः ।
पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः ॥ १२॥
रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः ।
ययुर्भयेन शरणं यस्याश्चरणपङ्कजे ॥ १३॥
त्रिलक्षकोटयो गोपाः सुदामादय एव च ।
ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४॥
पलायन्तं च कान्तं च विज्ञाय परमेश्वरी ।
पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ १५॥
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६॥
इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा ।
रासेश्वरी रासमध्ये रासेशमाजुहाव ह ॥ १७॥
नालोक्य पुरतः कृष्णं राधा विरहकातरा ।
युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ १८॥
हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय ।
प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना ॥ १९॥
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने ।
सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥ २०॥
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः ।
परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा ॥ २१॥
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।
सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः ॥ २२॥
सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः ।
न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ २३॥
भरणादेव भर्ता च पालनात्पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदः कान्त उच्यते ॥ २४॥
बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः ।
ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ २५॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ २६॥
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ २७॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥ २८॥
सर्वाण्येव व्रतादीनि महादानानि यानि च ।
उपोषणानि पुण्यानि यानि यानि श्रुतानि च ॥ २९॥
गुरुसेवा विप्रसेवा देवसेवादिकं च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३०॥