स्कन्ध 9, अध्याय 43: स्वाहोपाख्यानवर्णनम्, Verse 1
९.४३ त्रिचत्वारिंशोऽध्यायः ।
स्वाहोपाख्यानवर्णनम् ।
नारद उवाच ।
नारायण महाभाग नारायण महाप्रभो ।
रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४३ त्रिचत्वारिंशोऽध्यायः ।
स्वाहोपाख्यानवर्णनम् ।
नारद उवाच ।
नारायण महाभाग नारायण महाप्रभो ।
रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ १॥
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने ।
तपस्विनां मुनीनां च परो वेदविदांवर ॥ २॥
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् ।
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् ॥ ३॥
अतीव गोपनीयं यदुपयुक्तं च सर्वतः ।
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ ४॥
श्रीनारायण उवाच ।
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।
श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम् ॥ ५॥
तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि ।
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ ६॥
नारद उवाच ।
स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु ।
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ ७॥
एतासां चरितं जन्मफलं प्राधान्यमेव च ।
श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर ॥ ८॥
सूत उवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः ।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ९॥
श्रीनारायण उवाच ।
सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा ।
ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥ १०॥
गत्वा निवेदनं चक्रुराहारहेतुकं मुने ।
ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम् ॥ ११॥
नारद उवाच ।
यज्ञरूपो हि भगवान् कलया च बभूव ह ।
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥ १२॥
श्रीनारायण उवाच ।
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ।
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ॥ १३॥
देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः ।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १४॥
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ ।
पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया ॥ १५॥
प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी ।
अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥ १६॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७॥
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ।
प्रजापतिरुवाच ।
त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी ॥ १८॥
दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना ।
त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः ॥ १९॥
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ।
अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ॥ २०॥
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके ।
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥ २१॥
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् ।
स्वाहोवाच ।
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥ २२॥
ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च ।
विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः ॥ २३॥
बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् ।
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥ २४॥
प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् ।
ऋषयो मुनयश्चैव पूजिता यन्निषेवया ॥ २५॥
तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् ।
पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः ॥ २६॥
जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् ।
तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥ २७॥
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ।
अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी ॥ २८॥
मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी ।
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह ॥ २९॥
समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् ।
श्रीभगवानुवाच ।
वाराहे वै त्वमंशेन मम पत्नी भविष्यसि ॥ ३०॥