Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्

Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 1

९.४२ द्विचत्वारिंशोऽध्यायः ।

महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।

नारद उवाच ।

हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।

ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 2

श्रीनारायण उवाच ।

स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।

घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 3

गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।

एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 4

आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् ।

पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 5

पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ ।

देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 6

पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।

ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 7

ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा ।

हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 8

सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।

शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 9

स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।

प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 10

रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 11

सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।

ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 12

सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश ।

ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 13

प्रशस्तानि प्रकृष्टानि वराणि विविधानि च ।

अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 14

आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।

शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 15

पापेध्मवह्निरूपं च गृह्यतां कमलालये ।

पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 16

शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि ।

सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 17

देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये ।

कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 18

रत्नस्वर्णविकारं च देहभूषाविवर्धनम् ।

शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 19

सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् ।

वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 20

श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।

सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 21

जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् ।

प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 22

नानोपहाररूपं च नानारससमन्वितम् ।

अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 23

अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।

तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 24

शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् ।

स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 25

शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।

स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 26

नानाविधानि रम्याणि पक्वान्नानि फलानि च ।

सुरभिस्तनसन्त्यक्तं सुस्वादु सुमनोहरम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 27

मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये ।

सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 28

अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् ।

यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 29

सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।

सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 42: महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्, Verse 30

मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् ।

शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३०॥