स्कन्ध 9, अध्याय 41: श्रीलक्ष्म्युपाख्यानवर्णनम्, Verse 1
९.४१ एकचत्वारिंशोऽध्यायः ।
श्रीलक्ष्म्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् ।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४१ एकचत्वारिंशोऽध्यायः ।
श्रीलक्ष्म्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् ।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १॥
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ।
प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह ॥ २॥
वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति ।
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः ॥ ३॥
ब्रह्मोवाच ।
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ ४॥
मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् ।
कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत् ॥ ५॥
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।
मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत् ॥ ६॥
जनः पैतृकदोषेण दोषान्मातामहस्य च ।
गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम् ॥ ७॥
सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः ।
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८॥
मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः ।
विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥ ९॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः ।
आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥ १०॥
आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः ।
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११॥
अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् ।
यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२॥
शिवेन पूजितं पादपद्मं पुष्पेण येन च ।
तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥ १३॥
तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् ।
सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥ १४॥
दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् ।
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५॥
सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् ।
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥ १६॥
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् ।
एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥ १७॥
तत्र गत्वा परब्रह्म भगवन्तं सनातनम् ।
दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥ १८॥
ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् ।
शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥ १९॥
चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् ।
भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम् ॥ २०॥
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।
भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥ २१॥
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।
रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥ २२॥
स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् ।
रत्नभूषणशून्यं च वाहनादिविवर्जितम् ॥ २३॥
शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् ।
उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥ २४॥
श्रीभगवानुवाच ।
मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते ।
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ २५॥
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ।
हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २६॥
जनाश्चासङ्ख्यविश्वस्था मदधीनाश्च सन्ततम् ।
यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः ॥ २७॥
यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः ।
तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ २८॥
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः ।
तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ २९॥
यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् ।
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३०॥