स्कन्ध 9, अध्याय 40: लक्ष्म्युत्पत्तिवर्णनम्, Verse 1
९.४० चत्वारिंशोऽध्यायः ।
लक्ष्म्युत्पत्तिवर्णनम् ।
नारद उवाच ।
नारायणप्रिया सा च परा वैकुण्ठवासिनी ।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १॥
Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४० चत्वारिंशोऽध्यायः ।
लक्ष्म्युत्पत्तिवर्णनम् ।
नारद उवाच ।
नारायणप्रिया सा च परा वैकुण्ठवासिनी ।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १॥
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ २॥
श्रीनारायण उवाच ।
पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः ।
बभूव देवसङ्घश्च मर्त्यलोके हि नारद ॥ ३॥
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।
गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद ॥ ४॥
तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् ।
ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ ५॥
वैकुण्ठे शरणापन्ना देवा नारायणे परे ।
अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः ॥ ६॥
तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया ।
बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी ॥ ७॥
तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।
सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह ॥ ८॥
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ।
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ ९॥
देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद ।
तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः ॥ १०॥
नारद उवाच ।
कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन ।
केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा ॥ ११॥
ममन्थुः केनरूपेण जलधिं ते सुरादयः ।
केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा ॥ १२॥
को वा तयोश्च संवादो बभूव तद्वद प्रभो ।
श्रीनारायण उवाच ।
मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ॥ १३॥
क्रीडां चकार रहसि रम्भया सह कामुकः ।
कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः ॥ १४॥
तस्थौ तत्र महारण्ये कामोन्मथितमानसः ।
कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम् ॥ १५॥
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा ।
ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ॥ १६॥
प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् ।
शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम् ॥ १७॥
महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् ।
समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः ॥ १८॥
दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः ।
शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम् ॥ १९॥
मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः ।
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ॥ २०॥
तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् ।
शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा ॥ २१॥
पुष्पं स न्यस्तयामास तदैव करिमस्तके ।
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ॥ २२॥
तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह ।
त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम् ॥ २३॥
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ।
तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ॥ २४॥
तमुवाच महारुष्टः शशाप च रुषान्वितः ।
मुनिरुवाच ।
अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ॥ २५॥
मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके ।
विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम् ॥ २६॥
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् ।
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः ॥ २७॥
यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ।
प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम् ॥ २८॥
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ।
नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम् ॥ २९॥
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ।
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ॥ ३०॥