स्कन्ध 9, अध्याय 39: लक्ष्म्युपाख्यानवर्णनम्, Verse 1
९.३९ एकोनचत्वारिंशोऽध्यायः ।
लक्ष्म्युपाख्यानवर्णनम् ।
नारद उवाच ।
श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।
सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ १॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३९ एकोनचत्वारिंशोऽध्यायः ।
लक्ष्म्युपाख्यानवर्णनम् ।
नारद उवाच ।
श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।
सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ १॥
तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ २॥
केनादौ पूजिता सापि किम्भूता केन वा पुरा ।
तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर ॥ ३॥
श्रीनारायण उवाच ।
सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।
देवी वामांससम्भूता बभूव रासमण्डले ॥ ४॥
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता ।
यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना ॥ ५॥
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।
शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना ॥ ६॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।
सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया ॥ ७॥
स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा ।
यशसा वाससा कृत्या भूषणेन गुणेन च ॥ ८॥
स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च ।
तद्वामांसान्महालक्ष्मीर्दक्षिणासाञ्च्च राधिका ॥ ९॥
राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् ।
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥ १०॥
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ।
दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः ॥ ११॥
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ।
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ॥ १२॥
देवीभूता च महती महालक्ष्मीश्च सा स्मृता ।
राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः ॥ १३॥
शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता ।
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥ १४॥
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ ।
महालक्ष्मीश्च योगेन नानारूपा बभूव सा ॥ १५॥
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ।
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता ॥ १६॥
प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च ।
स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ॥ १७॥
पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः ॥ १८॥
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला ।
गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी ॥ १९॥
क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ।
शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता ॥ २०॥
विभूषणेषु रत्नेषु फलेषु च जलेषु च ।
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥ २१॥
सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ।
प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥ २२॥
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ।
मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च ॥ २३॥
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ।
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥ २४॥
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ।
विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥ २५॥
स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः ।
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ॥ २६॥
गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता ।
शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा ॥ २७॥
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ।
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥ २८॥
विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः ।
वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले ॥ २९॥
मनुस्तां पूजयामास सा भूता भुवनत्रये ।
पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला ॥ ३०॥