स्कन्ध 9, अध्याय 38: सावित्र्युपाख्यानवर्णनम्, Verse 1
९.३८ अष्टत्रिंशोऽध्यायः ।
सावित्र्युपाख्यानवर्णनम् ।
सावित्र्युवाच ।
देवीभक्तिं देहि मह्यं साराणां चैव सारकम् ।
पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ १॥
Containing 96 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३८ अष्टत्रिंशोऽध्यायः ।
सावित्र्युपाख्यानवर्णनम् ।
सावित्र्युवाच ।
देवीभक्तिं देहि मह्यं साराणां चैव सारकम् ।
पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ १॥
कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् ।
दारकं कर्मवृक्षाणां कृतपापौघहारणम् ॥ २॥
मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् ।
देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम् ॥ ३॥
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।
किञ्चिंज्ञानं सारभूतं वद वेदविदां वर ॥ ४॥
सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः ।
अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ ५॥
पितुः शतगुणा माता गौरवे चेति निश्चितम् ।
मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ ६॥
धर्मराज उवाच ।
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।
अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥ ७॥
श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम् ।
वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम् ॥ ८॥
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ ९॥
धाता चतुर्णां वेदानां विधाता जगतामपि ।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ १०॥
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ११॥
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।
कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ १२॥
सरस्वती जडीभूता नालं तद्गुणवर्णने ।
सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ १३॥
सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः ।
विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ १४॥
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।
के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ १५॥
ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १६॥
कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् ।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १७॥
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ १८॥
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना ।
अतीव निर्जनेऽरण्ये गोलोके रासमण्डले ॥ १९॥
तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् ।
धर्मं च कथयामास शिवलोके शिवः स्वयम् ॥ २०॥
धर्मस्तु कथयामास भास्वते पृच्छते तथा ।
यामाराध्य मत्पितापि सम्प्राप तपसा सति ॥ २१॥
पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः ।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ २२॥
तदा मां कथयामास पिता तद्गुणकीर्तनम् ।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ २३॥
तद्गुणं सा न जानाति तदन्यस्य च का कथा ।
यथाकाशो न जानाति स्वान्तमेव वरानने ॥ २४॥
सर्वात्मा सर्वभगवान् सर्वकारणकारणः ।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः ।
२५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।
निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः ॥ २६॥
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।
मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः ॥ २७॥
स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् ।
यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित् ॥ २८॥
सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।
रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥ २९॥
गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३०॥
नवीननीरदश्यामं किशोरं गोपवेषकम् ।
कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१॥