स्कन्ध 9, अध्याय 37: नानानरककुण्डवर्णनम्, Verse 1
९.३७ सप्तत्रिंशोऽध्यायः ।
नानानरककुण्डवर्णनम् ।
धर्मराज उवाच ।
पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् ।
निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १॥
Containing 118 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३७ सप्तत्रिंशोऽध्यायः ।
नानानरककुण्डवर्णनम् ।
धर्मराज उवाच ।
पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् ।
निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १॥
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।
क्लेशदं पातकानां च नानारूपं तदालयम् ॥ २॥
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ ३॥
महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४॥
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।
महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ ५॥
क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः ।
तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम् ॥ ६॥
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥ ७॥
प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः ।
विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ ८॥
अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् ।
ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ ९॥
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः ।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥ १०॥
युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा ।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम् ॥ ११॥
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः ।
श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ १२॥
तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा ।
क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ १३॥
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च ।
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥ १४॥
सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः ।
नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ १५॥
पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः ।
वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ १६॥
तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः ।
शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ १७॥
पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः ।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ १८॥
तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् ।
पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ १९॥
वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः ।
नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम् ॥ २०॥
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः ।
कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम् ॥ २१॥
वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः ।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ २२॥
महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् ।
परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ २३॥
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥ २४॥
पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः ।
वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ २५॥
पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः ।
प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ २६॥
ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा ।
प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ॥ २७॥
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।
प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम् ॥ २८॥
लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ।
प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ २९॥
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३०॥