स्कन्ध 9, अध्याय 36: देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम्, Verse 1
९.३६ षट्त्रिंशोऽध्यायः ।
देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।
सावित्र्युवाच ।
धर्मराज महाभाग वेदवेदाङ्गपारग ।
नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ १॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३६ षट्त्रिंशोऽध्यायः ।
देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।
सावित्र्युवाच ।
धर्मराज महाभाग वेदवेदाङ्गपारग ।
नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ १॥
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।
कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥ २॥
सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् ।
भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः ॥ ३॥
कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च ।
न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम् ॥ ४॥
किमाकाराणि कुण्डानि तानि वा निर्मितानि च ।
के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः ॥ ५॥
स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः ।
केन देहेन वा भोगं करोति च शुभाशुभम् ॥ ६॥
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ ७॥
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।
कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम् ॥ ८॥
धर्मराज उवाच ।
वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च ।
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ ९॥
अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते ।
सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥ १०॥
जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् ।
सर्वमङ्गलरूपं च परमानन्दकारणम् ॥ ११॥
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।
भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ॥ १२॥
विमोक्षसोपानमिदमविनाशपदं स्मृतम् ।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम् ॥ १३॥
कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे ।
न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः ॥ १४॥
देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् ।
यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम् ॥ १५॥
प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च ।
न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम् ॥ १६॥
त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः ।
निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः ॥ १७॥
स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा ।
गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः ॥ १८॥
भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः ।
स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम् ॥ १९॥
यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना ।
कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः ॥ २०॥
देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् ।
करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ॥ २१॥
मधुपर्कादिकं तेषां कुरुते च पुनः पुनः ।
विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति ॥ २२॥
दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः ।
ते महाभाग्यवन्तो हि सहस्रकुलपावनाः ॥ २३॥
यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च ।
प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत् ॥ २४॥
कामश्च कामिनं याति लोभक्रोधौ ततः सति ।
मृत्युः प्रलीयते रोगो जरा शोको भयं तथा ॥ २५॥
कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च ।
ये ये न यान्ति तां पीडां कथितास्ते मया सति ॥ २६॥
शृणु देहविवरणं कथयामि यथागमम् ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ २७॥
देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् ।
पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत् ॥ २८॥
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।
बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः ॥ २९॥
बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे ।
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ॥ ३०॥