स्कन्ध 9, अध्याय 35: नानाकर्मविपाकफलकथनम्, Verse 1
९.३५ पञ्चत्रिंशोऽध्यायः ।
नानाकर्मविपाकफलकथनम् ।
धर्मराज उवाच ।
देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् ।
शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३५ पञ्चत्रिंशोऽध्यायः ।
नानाकर्मविपाकफलकथनम् ।
धर्मराज उवाच ।
देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् ।
शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ १॥
पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते ।
स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥ २॥
शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः ॥ ३॥
पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता ।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि ॥ ४॥
वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे ।
तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु ॥ ५॥
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।
पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम् ॥ ६॥
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ ७॥
पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥ ८॥
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः ॥ ९॥
कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः ।
पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते ॥ १०॥
महावेश्याप्रगामी च जायते शाल्मलीतरुः ।
यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ॥ ११॥
अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च ।
ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥ १२॥
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।
वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च ॥ १३॥
स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् ।
तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम् ॥ १४॥
निवसेच्छरशय्यायां मम दूतेन ताडितः ।
भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम् ॥ १५॥
स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् ।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥ १६॥
ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः ।
करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः ॥ १७॥
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।
प्रकोपवदना कोपात् स्वामिनं या च पश्यति ॥ १८॥
कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि ।
उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः ॥ १९॥
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥ २०॥
सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः ।
या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा ॥ २१॥
तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् ।
निवसेदतिसन्तप्ता मम दूतेन ताडिता ॥ २२॥
शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश ।
काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥ २३॥
शृगाली शतजन्मानि शतजन्मानि कुक्कुटी ।
पारावती सप्तजन्म वानरी सप्तजन्मसु ॥ २४॥
ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते ।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ॥ २५॥
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।
निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने ॥ २६॥
जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके ।
स्वैरिणी दलने चैव धृष्टा च शोषणे तथा ॥ २७॥
निवसेद्यातनायुक्ता मम दूतेन ताडिता ।
विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति ॥ २८॥
ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः ।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः ॥ २९॥
वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि ।
सवर्णपरदारैश्च कषायं यान्ति ते जनाः ॥ ३०॥