Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्

Containing 127 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 1

९.३३ त्रयस्त्रिंशोऽध्यायः ।

नानाकर्मविपाकफलकथनम् ।

धर्मराज उवाच ।

हरिसेवारतः शुद्धो योगसिद्धो व्रती सति ।

तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 2

कटुवाचा बान्धवांश्च बललेपेन यो नरः ।

दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 3

स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने ।

पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 4

ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् ।

न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 5

तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे ।

तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 6

रविवारे च सङ्क्रान्त्याममायां श्राद्धवासरे ।

वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 7

स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।

स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 8

मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः ।

वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 9

ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः ।

गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 10

ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके ।

नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 11

तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः ।

देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 12

स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः ।

षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 13

तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति ।

षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 14

परकीयतडागे च तडागं यः करोति च ।

उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 15

तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ।

पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 16

एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च ।

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 17

ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् ।

श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 18

पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् ।

यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 19

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 20

दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।

पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 21

यानि कानि च पापानि ब्रह्महत्यादिकानि च ।

इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 22

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 23

दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि ।

स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 24

कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।

ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 25

पुमांसं कामिनी वापि कामिनीं वा पुमानथ ।

यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 26

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 27

सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।

स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 28

ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते ।

ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 29

योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् ।

श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 33: नानाकर्मविपाकफलकथनम्, Verse 30

स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् ।

ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ ३०॥