स्कन्ध 2, अध्याय 5: देवव्रतप्रतिज्ञावर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां २.५ पञ्चमोऽध्यायः ।
देवव्रतप्रतिज्ञावर्णनम् ।
ऋषय ऊचुः ।
वसूनां सम्भवः सूत कथितः शापकारणात् ।
गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां २.५ पञ्चमोऽध्यायः ।
देवव्रतप्रतिज्ञावर्णनम् ।
ऋषय ऊचुः ।
वसूनां सम्भवः सूत कथितः शापकारणात् ।
गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १॥
माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती ।
कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ २॥
तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता ।
राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ ३॥
सूत उवाच ।
शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा ।
वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ ४॥
चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः ।
रममाणः सुखं प्राप कुमारेण यथा हरः ॥ ५॥
एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् ।
स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ ६॥
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ ७॥
न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न ।
चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ ८॥
न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः ।
कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ ९॥
इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् ।
मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ १०॥
स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् ।
शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ ११॥
दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः ।
अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ १२॥
तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः ।
वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ १३॥
केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा ।
गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम् ॥ १४॥
सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् ।
गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च ॥ १५॥
कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु ।
एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि ॥ १६॥
सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च ।
ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ॥ १७॥
इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा ।
दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च ॥ १८॥
तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र ।
पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ १९॥
इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे ।
कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥ २०॥
न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि ।
दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥ २१॥
गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते ।
त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ॥ २२॥
श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या ।
उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ २३॥
यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते ।
नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥ २४॥
न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि ।
स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम् ॥ २५॥
मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च ।
दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु ॥ २६॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्या नृपति काममोहितः ।
गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ २७॥
दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः ।
प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ २८॥
दाश उवाच ।
दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे ।
आज्ञां देहि महाराज यदर्थमिह चागमः ॥ २९॥
राजोवाच ।
धर्मपत्नीं करिष्यामि सुतामेतां तवानघ ।
त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ ३०॥