स्कन्ध 9, अध्याय 32: सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम्, Verse 1
९.३२ द्वात्रिंशोऽध्यायः ।
सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।
श्रीनारायण उवाच ।
मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १॥
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३२ द्वात्रिंशोऽध्यायः ।
सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।
श्रीनारायण उवाच ।
मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १॥
धर्मराज उवाच ।
शुभकर्मविपाकान्न नरकं याति मानवः ।
कर्माशुभविपाकं च कथयामि निशामय ॥ २॥
नानापुराणभेदेन नामभेदेन भामिनि ।
नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः ॥ ३॥
शुभकर्मविपाकान्न नरकं याति कर्मभिः ।
कुकर्मणा च नरकं याति नानाविधं नरः ॥ ४॥
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।
नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ॥ ५॥
विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् ।
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ ६॥
षडशीति च कुण्डानि एवमन्यानि सन्ति च ।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ७॥
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ८॥
गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ९॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ १०॥
लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ ११॥
चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् ।
तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ १२॥
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १३॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १४॥
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १५॥
मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १६॥
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च ।
चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १७॥
ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते ।
तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम् ॥ १८॥
गोकामुख नक्रमुखं गजदंशं च गोमुखम् ।
कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥ १९॥
पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।
उल्कामुखमन्धकूपं वेधनं ताडनं तथा ॥ २०॥
जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् ।
शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम् ॥ २१॥
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।
नियुतैः किङ्करगणै रक्षितानि च सन्ततम् ॥ २२॥
दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः ।
शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥ २३॥
तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः ।
तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः ॥ २४॥
योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः ।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २५॥
स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः ।
अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च ॥ २६॥
स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः ।
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २७॥
एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् ।
येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ९.३२॥