स्कन्ध 9, अध्याय 31: यमाष्टकवर्णनम्, Verse 1
९.३१ एकत्रिंशोऽध्यायः ।
यमाष्टकवर्णनम् ।
श्रीनारायण उवाच ।
शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः ।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १॥
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३१ एकत्रिंशोऽध्यायः ।
यमाष्टकवर्णनम् ।
श्रीनारायण उवाच ।
शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः ।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १॥
सावित्र्युवाच ।
शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् ।
श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ २॥
दानवानां च सिद्धानां तपसां च परं पदम् ।
योगानां चैव वेदानां कीर्तनं सेवनं विभो ॥ ३॥
मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च ।
श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥
भजामि केन विधिना वद वेदविदांवर ।
शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् ॥ ५॥
कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ।
इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा ॥ ६॥
तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ।
सावित्र्युवाच ।
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ ७॥
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ।
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ ८॥
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ९॥
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ।
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ १०॥
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ।
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ११॥
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ।
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ १२॥
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ।
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ १३॥
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ।
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ १४॥
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ।
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ १५॥
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ।
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १६॥
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ १७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ९.३१॥