स्कन्ध 9, अध्याय 30: यमेन कर्मविपाककथनम्, Verse 1
९.३० त्रिंशोऽध्यायः ।
यमेन कर्मविपाककथनम् ।
सावित्र्युवाच ।
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १॥
Containing 141 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३० त्रिंशोऽध्यायः ।
यमेन कर्मविपाककथनम् ।
सावित्र्युवाच ।
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १॥
धर्मराज उवाच ।
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २॥
अन्नदानं महादानमन्येभ्योऽपि करोति यः ।
अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।
महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९॥
यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १०॥
विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११॥
यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२॥
यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३॥
यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४॥
करोति गजदानं च यदि विप्राय भारते ।
यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७॥
प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।
महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९॥
धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २०॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१॥
यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२॥
इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३॥
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ २४॥
तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५॥
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।
ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६॥
सालङ्कृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८॥
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३०॥