स्कन्ध 9, अध्याय 29: सावित्र्युपाख्याने कर्मविपाकवर्णनम्, Verse 1
९.२९ एकोनत्रिंशोऽध्यायः ।
सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ १॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२९ एकोनत्रिंशोऽध्यायः ।
सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ १॥
धर्म उवाच ।
कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना ।
ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥ २॥
सावित्रीवरदानेन त्वं सावित्री कला सती ।
प्राप्ता पुरा भूभृता च तपसा तत्समा सुते ॥ ३॥
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।
यथादितिः कश्यपे च यथाहल्या च गौतमे ॥ ४॥
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ।
यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥ ५॥
यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे ।
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥ ६॥
यथा वराहे पृथिवी देवसेना च कार्तिके ।
सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये ॥ ७॥
अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् ।
शृणु देवि महाभागे ददामि सकलेप्सितम् ॥ ८॥
सावित्र्युवाच ।
सत्यवत औरसानां पुत्राणां शतकं मम ।
भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ ९॥
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।
राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम् ॥ १०॥
अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् ।
समतीते लक्षवर्षे देहीदं मे जगत्प्रभो ॥ ११॥
जीवकर्मविपाकं च श्रोतुं कौतूहलं मम ।
विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ १२॥
धर्मराज उवाच ।
भविष्यति महासाध्वि सर्वं मानसिकं तव ।
जीवकर्मविपाकं च कथयामि निशामय ॥ १३॥
शुभानामशुभानां च कर्मणां जन्म भारते ।
पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः ॥ १४॥
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।
नराश्च कर्मजनका न सर्वे जीविनः सति ॥ १५॥
विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु ।
शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च ॥ १६॥
विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु ।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥ १७॥
शुभेन कर्मणा याति स्वर्लोकादिकमेव च ।
कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥ १८॥
कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति ।
निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह ॥ १९॥
रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा ।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा ॥ २०॥
अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च ।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥ २१॥
सामान्यं कथितं देवि विशेषं शृणु सुन्दरि ।
सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि ॥ २२॥
दुर्लभा मानुषी जातिः सर्वजातिषु भारते ।
सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥ २३॥
ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति ।
निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति ॥ २४॥
सकामाज्ज प्रधानश्च निष्कामो भक्त एव च ।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ २५॥
स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् ।
पुनरागमनं नास्ति तेषां निष्कामिनां सति ॥ २६॥
सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् ।
गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥ २७॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ २८॥
काले गते च निष्कामा भवन्त्येव क्रमेण च ।
भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः ॥ २९॥
ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु ।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ ३०॥