स्कन्ध 9, अध्याय 27: सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम्, Verse 1
९.२७ सप्तविंशोऽध्यायः ।
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।
श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् ।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १॥
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२७ सप्तविंशोऽध्यायः ।
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।
श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् ।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १॥
उवाच सा च राजानं प्रसन्ना सस्मिता सती ।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥ २॥
सावित्र्युवाच ।
जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् ।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥ ३॥
साध्वी कन्याभिलाषं च करोति तव कामिनी ।
त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च ॥ ४॥
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह ।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ ५॥
आराधनाच्च सावित्र्या बभूव कमला परा ।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ ६॥
कालेन सा वर्धमाना बभूव च दिने दिने ।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ ७॥
सा वरं वरयामास द्युमत्सेनात्मजं तदा ।
सत्यवन्तं सत्यशीलं नानागुणसमन्वितम् ॥ ८॥
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।
सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ ॥ ९॥
स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः ।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥ १०॥
जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः ।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ ११॥
यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने ।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ १२॥
पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः ।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ १३॥
धर्मराज उवाच ।
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ १४॥
गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् ।
देहं च मम लोकं च नश्वरं नश्वरः सदा ॥ १५॥
भर्तुस्ते पूर्णकालो वै बभूव भारते सति ।
स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥ १६॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते ॥ १७॥
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ १८॥
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ १९॥
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।
कर्मणा च शिवत्वं च गणेशत्वं तथैव च ॥ २०॥
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा ।
स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा ॥ २१॥
कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः ।
स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा ॥ २२॥
कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा ।
कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा ॥ २३॥
कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा ।
कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा ॥ २४॥
दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा ।
इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ ९.२७॥