स्कन्ध 9, अध्याय 26: सावित्रीपूजाविधिकथनम्, Verse 1
९.२६ षड्विंशोऽध्यायः ।
सावित्रीपूजाविधिकथनम् ।
नारद उवाच ।
तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् ।
ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १॥
Containing 88 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२६ षड्विंशोऽध्यायः ।
सावित्रीपूजाविधिकथनम् ।
नारद उवाच ।
तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् ।
ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १॥
पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः ।
केन वा पूजिता लोके प्रथमे कैश्च वा परे ॥ २॥
श्रीनारायण उवाच ।
ब्रह्मणा वेदजननी प्रथमे पूजिता मुने ।
द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३॥
तदा चाश्वपतिर्भूपः पूजयामास भारते ।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४॥
नारद उवाच ।
को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता ।
सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥ ५॥
श्रीनारायण उवाच ।
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।
वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ ६॥
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।
मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७॥
सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः ।
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८॥
प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् ।
गृहं जगाम दुःखार्ता हृदयेन विदूयता ॥ ९॥
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ १०॥
तपश्चकार तत्रैव संयतः शतवत्सरम् ।
न ददर्श च सावित्र्या प्रत्यादेशो बभूव च ॥ ११॥
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।
गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥ १२॥
एतस्मिन्नन्तरे तत्र आजगाम पराशरः ।
प्रणनाम ततस्तं च मुनिर्नृपमुवाच च ॥ १३॥
मुनिरुवाच ।
सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् ।
दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥ १४॥
शतवारं जपश्चैव पापं मासार्जितं हरेत् ।
सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम् ॥ १५॥
लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् ।
सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ॥ १६॥
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।
करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम् ॥ १७॥
आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।
अनामिकामध्यदेशादधोऽवामक्रमेण च ॥ १८॥
तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे ।
श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम् ॥ १९॥
कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये ।
संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥ २०॥
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१॥
अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् ।
अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम् ॥ २२॥
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।
साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ २३॥
नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने ।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५॥
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २६॥
यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च ।
स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ २७॥
तत्पादपद्मरजसा सद्यःपूता वसुन्धरा ।
जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥ २८॥
तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९॥
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च ॥ ३०॥