स्कन्ध 9, अध्याय 25: तुलसीपूजाविधिवर्णनम्, Verse 1
९.२५ पञ्चविंशोऽध्यायः ।
तुलसीपूजाविधिवर्णनम् ।
नारद उवाच ।
तुलसी च यदा पूज्या कृता नारायणप्रिया ।
अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ १॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२५ पञ्चविंशोऽध्यायः ।
तुलसीपूजाविधिवर्णनम् ।
नारद उवाच ।
तुलसी च यदा पूज्या कृता नारायणप्रिया ।
अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ १॥
केन पूजा कृता केन स्तुता प्रथमतो मुने ।
तत्र पूज्या सा बभूव केन वा वद मामहो ॥ २॥
सूत उवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ ३॥
श्रीनारायण उवाच ।
हरिः सम्पूज्य तुलसीं रेमे च रमया सह ।
रमासमानसौभाग्यां चकार गौरवेण च ॥ ४॥
सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् ।
सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती ॥ ५॥
सा तां जघान कलहे मानिनी हरिसन्निधौ ।
व्रीडया चापमानेन सान्तर्धानं चकार ह ॥ ६॥
सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी ।
जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७॥
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् ।
तदनुज्ञां गहीत्वा च जगाम तुलसीवनम् ॥ ८॥
तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् ।
पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह ॥ ९॥
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् ।
वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च ॥ १०॥
अनेन कल्पतरुणा मन्त्रराजेन नारद ।
पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम् ॥ ११॥
घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।
नैवेद्येन च पुष्पेण चोपचारेण नारद ॥ १२॥
हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् ।
प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा ॥ १३॥
वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति ।
अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि ॥ १४॥
सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः ।
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ १५॥
नारद उवाच ।
किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् ।
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ १६॥
श्रीनारायण उवाच ।
अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा ।
तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः ॥ १७॥
श्रीभगवानुवाच ।
वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् ॥ १८॥
पुरा बभूव या देवी त्वादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम् ॥ १९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम् ॥ २०॥
असङ्ख्यानि च विश्वानि पवित्राणि त्वया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२॥
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥ २३॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ २४॥
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥ २५॥
इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः ।
ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥ २६॥
रुदतीमवमानेन मानिनीं मानपूजिताम् ।
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७॥
भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः ।
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८॥
वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति ।
शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९॥
विष्णोर्वरेण सा देवी परितुष्टा बभूव च ।
सरस्वती तामाकृष्य वासयामास सन्निधौ ॥ ३०॥