Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्

Containing 103 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 1

९.२४ चतुर्विंशोऽध्यायः ।

तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।

नारद उवाच ।

नारायणश्च भगवान्वीर्याधानं चकार ह ।

तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 2

श्रीनारायण उवाच ।

नारायणश्च भगवान्देवानां साधनेषु च ।

शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 3

पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् ।

पातिव्रतस्य नाशेन शङ्खचूडजिघांसया ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 4

दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।

जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 5

तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता ।

राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 6

ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।

वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 7

अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।

अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 8

दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता ।

तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 9

रत्नसिंहासने रम्ये वासयामास कामुकी ।

ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 10

अद्य मे सफलं जन्म जीवनं च बभूव ह ।

रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 11

सस्मिता सकटाक्षं च सकामा पुलकाङ्किता ।

पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 12

तुलस्युवाच ।

असङ्ख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।

कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 13

तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।

शङ्खचूडस्य रूपेण तामुवाचामृतं वचः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 14

श्रीभगवानुवाच ।

आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।

नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 15

प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः ।

देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 16

मयागतं स्वभवनं शिवलोकं शिवो गतः ।

इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 17

रेमे रमापतिस्तत्र रामया सह नारद ।

सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 18

सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।

तुलस्युवाच ।

को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 19

दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे ।

तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 20

दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् ।

ददर्श पुरतो देवी देवदेवं सनातनम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 21

नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।

कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 22

ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् ।

तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 23

पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।

तुलस्युवाच ।

हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 24

छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ।

पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 25

तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना ।

ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 26

भक्तो विनापराधेन परार्थे च कथं हतः ।

भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 27

ततश्च करुणां दृष्ट्वा करुणारससागरः ।

नयेन तां बोधयितुमुवाच कमलापतिः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 28

श्रीभगवानुवाच ।

तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् ।

त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 29

कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् ।

अधुना दातुमुचितं तवैव तपसः फलम् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 24: तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्, Verse 30

इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।

रामे रम मया सार्धं त्वं रमासदृशी भव ॥ ३०॥