Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 1

९.२३ त्रयोविंशोऽध्यायः ।

शङ्खचूडवधवर्णनम् ।

शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।

ययौ स्वयं च समरे स्वगणैः सह नारद ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 2

शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च ।

ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 3

तं प्रणम्य च वेगेन विमानमारुरोह सः ।

तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 4

शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा ।

न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 5

न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः ।

रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 6

दानवानां च शतकमुद्धृतं च बभूव ह ।

रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 7

एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः ।

आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 8

वृद्धब्राह्मण उवाच ।

देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।

त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 9

निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् ।

पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 10

ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।

कवचार्थी जनश्चाहमित्युवाचातिमायया ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 11

तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च ।

शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 12

गत्वा तस्यां मायया च वीर्याधानं चकार ह ।

अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 13

ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् ।

दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 14

तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् ।

शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 15

धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् ।

सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 16

संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया ।

चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 17

राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।

ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 18

शूलं च भ्रमणं कृत्वा पपात दानवोपरि ।

चकार भस्मसात्तं च सरथं चाथ लीलया ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 19

राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् ।

द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 20

रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः ।

गोलोकादागतं यानमारुरोह पुरं ययौ ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 21

गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने ।

भक्त्या च चरणाम्भोजं रासे वृन्दावने वने ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 22

सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ ।

क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 23

अथ शलं च वेगेन प्रययौ तं च सादरम् ।

अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 24

नानाप्रकाररूपेण शश्वत्पूता सुरार्चने ।

प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 25

तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना ।

शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 26

स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ।

शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 27

तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् ।

स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 28

भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः ।

शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 29

प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः ।

सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 23: शङ्खचूडवधवर्णनम्, Verse 30

नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।

बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।

प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३०॥