स्कन्ध 2, अध्याय 4: देवव्रतोत्पतिवर्णनम्, Verse 1
२.४ चतुर्थोऽध्यायः ।
देवव्रतोत्पतिवर्णनम् ।
सूत उवाच ।
प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः ।
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ १॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
२.४ चतुर्थोऽध्यायः ।
देवव्रतोत्पतिवर्णनम् ।
सूत उवाच ।
प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः ।
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ १॥
स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः ।
ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ २॥
दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ।
रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ ३॥
पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः ।
हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ ४॥
महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह ।
किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ ५॥
वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् ।
उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ ६॥
देवी वा त्वं च वामोरु मानुषी वा वरानने ।
गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ ७॥
यासि कासि वरारोहे भार्या मे भव सुन्दरि ।
प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ ८॥
सूत उवाच ।
राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् ।
महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ ९॥
पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ।
उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ १०॥
स्त्र्युवाच ।
जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ।
का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ ११॥
वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल ।
शृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ १२॥
यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् ।
न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ १३॥
यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ।
तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ १४॥
स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ।
महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ १५॥
तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् ।
एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ १६॥
नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी ।
नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ १७॥
सापि तं रमयामास भावज्ञा वै वराङ्गना ।
न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ १८॥
स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ।
सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ १९॥
रेमाते मन्दिरे दिव्ये रमानारायणाविव ।
एवं गच्छति काले सा दधार नृपतेस्तदा ॥ २०॥
गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना ।
जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ २१॥
तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च ।
सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ २२॥
किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ।
सप्त पुत्रा हता नूनमनया पापरूपया ॥ २३॥
निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ।
अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ २४॥
न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ।
भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ २५॥
सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् ।
एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ २६॥
वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ।
ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ २७॥
मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि ।
तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ २८॥
दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते ।
पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ २९॥
हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ।
अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ ३०॥