Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्

Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 1

९.२२ द्वाविंशोऽध्यायः ।

कालीशङ्खचूडयुद्धवर्णनम् ।

श्रीनारायण उवाच ।

शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।

समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 2

शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् ।

दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 3

स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।

भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 4

दम्भेन सह चन्द्रश्च चकार परमं रणम् ।

कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 5

कुबेरः कालकेयेन विश्वकर्मा मयेन च ।

भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 6

विकङ्कणेन वरुणश्चञ्चलेन समीरणः ।

बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 7

जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।

अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 8

धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः ।

शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 9

गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।

काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 10

विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।

एकादश च रुद्रा वै एकादशभयङ्करैः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 11

महामारी च युयुधे चोग्रचण्डादिभिः सह ।

नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 12

युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे ।

वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 13

सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।

रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 14

उवास शङ्खचूडश्च रत्नभूषणभूषितः ।

शङ्करस्य च ये योधा दानवैश्च पराजिताः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 15

देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः ।

चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 16

बलं च स्वर्गणानां च वर्धयामास तेजसा ।

सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 17

अक्षौहिणीनां शतकं समरे च जघान सः ।

असुरान्पातयामास काली कमललोचना ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 18

पपौ रक्तं दानवानामतिकुद्धा ततः परम् ।

दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 19

समादायैकहस्तेन मुखे चिक्षेप लीलया ।

कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 20

स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः ।

भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 21

वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः ।

स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 22

महामारी च युयुधे न बभूव पराङ्मुखी ।

बभूवुस्ते च सङ्क्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 23

न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह ।

स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 24

दानवानां क्षयकरं यथा प्राकृतिको लयः ।

राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 25

नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा ।

महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 26

देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः ।

एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 27

पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।

नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 28

नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः ।

नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 29

धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः ।

बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 22: कालीशङ्खचूडयुद्धवर्णनम्, Verse 30

मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।

शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३०॥