स्कन्ध 9, अध्याय 21: शङ्खचूडकृते प्रबोधवाक्यवर्णनम्, Verse 1
९.२१ एकविंशोऽध्यायः ।
शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।
श्रीनारायण उवाच ।
श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १॥
Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२१ एकविंशोऽध्यायः ।
शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।
श्रीनारायण उवाच ।
श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १॥
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २॥
चकाराह्निकमावश्यमभीष्टदेववन्दनम् ।
दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम् ॥ ३॥
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।
ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४॥
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।
ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ ५॥
गजरत्नमश्वरत्नं धनरत्नं मनोहरम् ।
ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च ॥ ६॥
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् ।
ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ ७॥
पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च ।
पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ ८॥
प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् ।
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९॥
भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् ।
अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ १०॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।
त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११॥
कृता सेनापरिमिता दानवेन्द्रेण नारद ।
तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।
त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ १३॥
त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह ।
बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ १४॥
रत्नेन्द्रसारनिर्माणविमानमारुरोह सः ।
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ १५॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ १६॥
कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ १८॥
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।
शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ १९॥
लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ २०॥
गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम् ॥ २१॥
वटमूले समासीनं सूर्यकोटिसमप्रभम् ।
कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ २२॥
शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ।
त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ २३॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २४॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् ।
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ २५॥
विश्वम्भरं विश्ववरं विश्वसंहारकारकम् ।
कारणं कारणानां च नरकार्णवतारणम् ॥ २६॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।
अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २७॥
सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।
वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ २८॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।
उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ २९॥
परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् ।
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ ३०॥