Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्

Containing 85 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 1

९.२० विंशोऽध्यायः ।

शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।

श्रीनारायण उवाच ।

ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च ।

जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 2

चन्द्रभागानदीतीरे वटमूले मनोहरे ।

तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 3

दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।

शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 4

सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् ।

महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 5

पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् ।

स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 6

सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।

ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 7

युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः ।

परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 8

सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।

भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 9

गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् ।

अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 10

ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः ।

तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 11

अत्युच्चैर्गगनस्पर्शिमणिश‍ृङ्गविराजितम् ।

राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 12

मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः ।

शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 13

तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः ।

द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 14

तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।

कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 15

अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः ।

न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 16

गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह ।

रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 17

स च तं कथयित्वा च दूतो गन्तुमुवाच ह ।

स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 18

राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् ।

मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 19

रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा ।

भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 20

सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः ।

सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 21

माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने ।

दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 22

शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः ।

एवम्भूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 23

उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च ।

पुष्पदन्त उवाच ।

राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 24

यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय ।

राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 25

देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् ।

हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 26

पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः ।

विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 27

गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि ।

दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 28

प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह ।

स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 29

शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् ।

एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 20: शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्, Verse 30

वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।

विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ३०॥