स्कन्ध 9, अध्याय 19: शङ्खचूडेन सह तुलसीसङ्गमवर्णनम्, Verse 1
९.१९ एकोनविंशोऽध्यायः ।
शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।
नारद उवाच ।
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १॥
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.१९ एकोनविंशोऽध्यायः ।
शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।
नारद उवाच ।
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १॥
ततः परं तु यज्जातं तत्त्वं वद महामते ।
श्रीनारायण उवाच ।
इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ २॥
गान्धर्वेण विवाहेन जगृहे तां च दानवः ।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३॥
स रेमे रामया सार्धं वासगेहे मनोरमे ।
मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता ॥ ४॥
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५॥
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।
अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६॥
तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः ।
अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७॥
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८॥
गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।
भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥ ९॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
जहार मानसं भर्तुर्लोलया लीलया सती ॥ १०॥
चेतनां रसिकायाश्च जहार रसभाववित् ।
वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११॥
स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।
तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२॥
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।
राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३॥
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।
आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा ॥ १४॥
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।
सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५॥
सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।
चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६॥
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ।
सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७॥
पारिजातस्य कुसुमं जरारोगहरं परम् ।
अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥ १८॥
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९॥
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २०॥
निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१॥
सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् ।
चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२॥
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।
तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३॥
ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४॥
अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् ।
शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५॥
विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६॥
निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् ।
सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७॥
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ २८॥
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९॥
चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३०॥