Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्

Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 1

९.१८ अष्टादशोऽध्यायः ।

शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।

नारायण उवाच ।

तुलसी परितुष्टा च सुष्वाप हृष्टमानसा ।

नवयौवनसम्पन्ना वृषध्वजवराङ्गना ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 2

चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति ।

पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 3

पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना ।

क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 4

क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।

क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 5

क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।

उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 6

भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः ।

क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 7

पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् ।

विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 8

निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः ।

सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 9

क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।

सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 10

चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।

आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 11

कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः ।

सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 12

पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ ।

यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 13

पुनश्च चेतनां प्राप्य विललाप पुनः पुनः ।

एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 14

शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् ।

कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 15

कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् ।

ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 16

आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ ।

आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 17

नवयौवनसम्पन्नं कामदेवसमप्रभम् ।

श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 18

शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।

रत्नसारविनिर्माणविमानस्थं मनोहरम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 19

रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।

पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 20

कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् ।

सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 21

सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।

बभूवातिनम्रमुखी नवसङ्गमलज्जिता ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 22

शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता ।

अमूल्यरत्ननिर्माणयावकावलिसंयुता ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 23

मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।

दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 24

अमूल्यरत्ननिर्माणमकराकृतिकुण्डला ।

चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 25

रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला ।

रत्नकङ्कणकेयूरशङ्खभूषणभूषिता ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 26

रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता ।

दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 27

उवास तत्समीपे तु मधुरं तामुवाच सः ।

शङ्खचूड उवाच ।

का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 28

का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि ।

मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 29

इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।

सस्मिता नम्रवदना सकामं तमुवाच सा ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 18: शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्, Verse 30

तुलस्युवाच ।

धर्मध्वजसुताहं च तपस्यायां तपोवने ।

तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ३०॥