स्कन्ध 9, अध्याय 17: धर्मध्वजसुतातुलस्युपाख्यानवर्णनम्, Verse 1
९.१७ सप्तदशोऽध्यायः ।
धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
धर्मध्वजस्य पत्नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.१७ सप्तदशोऽध्यायः ।
धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
धर्मध्वजस्य पत्नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना ॥ २॥
स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता ।
कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४॥
ततो राजा मतिं प्राप्य सुरताद्विरराम च ।
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५॥
दधार गर्भं सा सद्यो दैवादब्दशतं सती ।
श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६॥
शुभे क्षणे शुभदिने शुभयोगे च संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७॥
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।
सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।
तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १०॥
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११॥
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।
नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२॥
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।
सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।
तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४॥
मनसा नारायणः स्वामी भवितेति च निश्चिता ।
ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५॥
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६॥
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७॥
ततो दशसहस्राब्दं निराहारा बभूव सा ।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः ॥ १८॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ।
चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९॥
तामुवाच जगत्कर्ता विधाता जगतामपि ।
ब्रह्मोवाच ।
वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २०॥
हरिभक्तिं हरेर्दास्यमजरामरतामपि ।
तुलस्युवाच ।
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।
अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२॥
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया ।
गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३॥
रासेश्वरी समागत्य ददर्श रासमण्डले ।
गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४॥
याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।
मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६॥
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७॥
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।
ब्रह्मदेव उवाच ।
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥ २८॥
तदंशश्चातितेजस्वी लेभे जन्म च भारते ।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥ २९॥
शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३०॥