Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्

Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 1

९.१६ षोडशोऽध्यायः ।

महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।

श्रीनारायण उवाच ।

लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।

वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 2

महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः ।

पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 3

कुशध्वजस्य पत्नी च देवी मालावती सती ।

सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 4

सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह ।

कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 5

वेदध्वनिं सा चकार जातमात्रेण कन्यका ।

तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 6

जातमात्रेण सुस्नाता जगाम तपसे वनम् ।

सर्वैर्निषिद्धा यत्नेन नारायणपरायणा ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 7

एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।

अत्युग्रां च तपस्यां च लीलया हि चकार सा ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 8

तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता ।

सुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 9

जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् ।

ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 10

इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः ।

अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 11

तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा ।

ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 12

दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल ।

सुस्वादुभूतं च फलं जलं चापि सुशीतलम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 13

तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः ।

चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 14

तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् ।

शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 15

मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।

स करेण समाकृष्य श‍ृङ्गारं कर्तुमुद्यतः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 16

सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह ।

स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 17

तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् ।

सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 18

सा शशाप मदर्थे त्वं विनङ्क्ष्यसि सबान्धवः ।

स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 19

इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।

गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 20

अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना ।

इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 21

सा च कालान्तरे साध्वी बभूव जनकात्मजा ।

सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 22

महातपस्विनी सा च तपसा पूर्वजन्मतः ।

लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 23

सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् ।

सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 24

जातिस्मरा न स्मरति तपसश्च क्लमं पुरा ।

सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 25

नानाप्रकारविभवं चकार सुचिरं सती ।

सम्प्राप्य सुकुमारं तमतीव नवयौवना ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 26

गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् ।

स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 27

पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः ।

जगाम काननं पश्चात्कालेन च बलीयसा ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 28

तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।

ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 29

रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह ।

उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 16: महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्, Verse 30

द्विज उवाच ।

भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः ।

सीताहरणकालोऽयं तवैव समुपस्थितः ॥ ३०॥