Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 1

९.१४ चतुर्दशोऽध्यायः ।

गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।

नारद उवाच ।

लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।

एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 2

गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।

कथं सा तस्य पत्नी च बभूवेति च न श्रुतम् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 3

श्रीनारायण उवाच ।

गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः ।

गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 4

ब्रह्मोवाच ।

राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी ।

नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 5

शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता ।

तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 6

तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।

समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 7

विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।

सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 8

गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।

सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 9

बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः ।

दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 10

प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।

गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 11

सुरेश्वरेषु रसिको रसिकेयं समागता ।

त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 12

विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् ।

उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 13

तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।

यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 14

सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।

त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 15

अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः ।

कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 16

दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।

तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 17

एकाङ्गं चैव स्वीपुंसोर्यथा प्रकृतिपूरुषौ ।

इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 18

गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।

नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 19

रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ।

गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 20

निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।

मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 21

रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता ।

तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 22

नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् ।

गङ्गा शशाप कोपेन भारते च हरिप्रिया ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 23

गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः ।

सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 9, अध्याय 14: गङ्गायाः कृष्णपत्नीत्ववर्णनम्, Verse 24

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गायाः कृष्णपत्नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ ९.१४॥