स्कन्ध 9, अध्याय 13: गङ्गोपाख्यानवर्णनम्, Verse 1
९.१३ त्रयोदशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १॥
Containing 137 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.१३ त्रयोदशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १॥
श्रीनारायण उवाच ।
भारतं भारतीशापात्समागत्येश्वरेच्छया ।
जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ २॥
भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् ।
पद्मावती च शापान्ते गङ्गा सा चैव नारद ॥ ३॥
गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः ।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४॥
नारद उवाच ।
केनोपायेन सा देवी विष्णुपादाब्जसम्भवा ।
ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ ५॥
बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६॥
श्रीनारायण उवाच ।
पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी ।
राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७॥
द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि ।
नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ ८॥
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९॥
स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।
सुपीनकठिनश्रोणिः सुनितम्बयुगन्धरा ॥ १०॥
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।
सुचारुनेत्रयुगलं सुकटाक्षं सुवङ्क्रिमम् ॥ ११॥
वङ्क्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२॥
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् ।
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३॥
पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वलम् ।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४॥
सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता ।
वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५॥
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ १६॥
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७॥
गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा ।
कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना ॥ १८॥
पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी ।
अमूल्यरत्ननिर्माणनानाभूषणभूषिता ॥ १९॥
अमूल्यरत्नखचितममूल्यं वह्निशौचकम् ।
पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ २०॥
स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् ।
कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ २१॥
रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा ।
सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ २२॥
कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् ।
दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ २३॥
दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले ।
पारिजातप्रसूनानां मालायुक्तं सुवङ्क्रिमम् ॥ २४॥
सुचारुकबरीभारं कम्पयन्ती सुकम्पिता ।
सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ २५॥
गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे ।
सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ २६॥
तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् ।
सम्भाष्य मधुरालापैः सस्मितश्च ससम्भ्रमः ॥ २७॥
प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः ।
तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ २८॥
उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा ।
कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ २९॥
नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका ।
ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ ३०॥