स्कन्ध 9, अध्याय 12: गङ्गोपाख्यानवर्णनम्, Verse 1
९.१२ द्वादशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् ।
श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ १॥
Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.१२ द्वादशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् ।
श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ १॥
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २॥
शरत्पूर्णेन्दुशतकमृष्टशोभाकरां पराम् ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ ३॥
नारायणप्रियां शान्तां तत्सौभाग्यसमन्विताम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ ४॥
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ।
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥ ५॥
पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटमुत्तमम् ।
मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्तिमनोरमम् ॥ ६॥
सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ।
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥ ७॥
बृहच्छ्रोणि सुकठिनां रम्भास्तम्भविनिन्दिताम् ।
स्थलपद्मप्रभामुष्टपादपद्मयुगं वरम् ॥ ८॥
रत्नपादुकसंयुक्तं कुङ्कुमाक्तं सयावकम् ।
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥ ९॥
सुरसिद्धमुनीन्द्रैश्च दत्तार्घसंयुतं सदा ।
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥ १०॥
मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ।
वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥ ११॥
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥ १२॥
दत्त्वा सम्पूजयेद् ब्रह्मन्नुपचाराणि षोडश ।
आसनं पाद्यमर्ध्यं च स्नानीयं चानुलेपनम् ॥ १३॥
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ।
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥ १४॥
मनोहरं सुतल्पं च देयान्येतानि षोडश ।
दत्त्वा भक्त्या च प्रणमेत्संस्तूय सम्पुटाञ्जलिः ॥ १५॥
सम्पूज्यैव प्रकारेण सोऽश्वमेधफलं लभेत् ।
नारद उवाच ।
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त जगत्पते ॥ १६॥
विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ।
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ॥ १७॥
शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् ।
राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ १८॥
यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले ।
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ १९॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमायां च तां गङ्गां प्रणमाम्यहम् ॥ २०॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोके तां गङ्गां प्रणमाम्यहम् ॥ २१॥
षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठे तां गङ्गां प्रणमाम्यहम् ॥ २२॥
त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता ब्रह्मलोके या तां गङ्गां प्रणमाम्यहम् ॥ २३॥
त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ।
आवृता शिवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २४॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता धुवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २५॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता चन्द्रलोके या तां गङ्गां प्रणमाम्यहम् ॥ २६॥
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोके या तां गङ्गां प्रणमाम्यहम् ॥ २७॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोके तां गङ्गां प्रणमाम्यहम् ॥ २८॥
सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः ।
आवृता जनलोके या तां गङ्गां प्रणमाम्यहम् ॥ २९॥
दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या महर्लोके तां गङ्गां प्रणमाम्यहम् ॥ ३०॥