स्कन्ध 9, अध्याय 11: गङ्गोपाख्यानवर्णनम्, Verse 1
९.११ एकादशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ १॥
Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.११ एकादशोऽध्यायः ।
गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ १॥
भारते भारतीशापात्सा जगाम सुरेश्वरी ।
विष्णुस्वरूपा परमा स्वयं विष्णुपदीति च ॥ २॥
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३॥
श्रीनारायण उवाच ।
राजराजेश्वरः श्रीमान् सगरः सूर्यवंशजः ।
तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ ४॥
तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः ।
असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ ५॥
अन्या चाराधयामास शङ्करं पुत्रकामुकी ।
बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ॥ ६॥
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ।
तद् दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ ७॥
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ ८॥
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः ॥ ९॥
कपिलस्य मुनेः शापाद् बभूवुर्भस्मसाच्च ते ।
राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥ १०॥
तपश्चकारासमञ्जो गङ्गानयनकारणात् ।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ ११॥
अंशुमांस्तस्य तनयो गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ १२॥
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १३॥
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ।
ददर्श कृष्णं ग्रीष्मस्थसूर्यकोटिसमप्रभम् ॥ १४॥
द्विभुजं मुरलीहस्तं किशोरं गोपवेषिणम् ।
गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ॥ १५॥
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् ।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ १६॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥ १७॥
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् ।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ॥ १८॥
लीलया च वरं प्राप वाञ्छितं वंशतारणम् ।
कृत्वा च स्तवनं दिव्यं पुलकाङ्कितविग्रहः ॥ १९॥
श्रीभगवानुवाच ।
भारतं भारतीशापाद् गच्छ शीघ्रं सुरेश्वरि ।
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥ २०॥
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् ।
बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥ २१॥
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ।
समुच्छिद्य कर्मभोगान् कृताञ्जन्मनि जन्मनि ॥ २२॥
कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः ।
गङ्गाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥ २३॥
स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥ २४॥
शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ २५॥
जन्मसङ्ख्यार्जितान्येव कामतोऽपि कृतानि च ।
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥ २६॥
पुण्याहस्नानतः पुण्यं वेदा नैव वदन्ति च ।
किञ्चिद्वदन्ति ते विप्र फलमेव यथागमम् ॥ २७॥
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च ।
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ॥ २८॥
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।
ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥ २९॥
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।
ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥ ३०॥