स्कन्ध 9, अध्याय 9: भूमिस्तोत्रवर्णनम्, Verse 1
९.९ नवमोऽध्यायः ।
भूमिस्तोत्रवर्णनम् ।
नारद उवाच ।
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.९ नवमोऽध्यायः ।
भूमिस्तोत्रवर्णनम् ।
नारद उवाच ।
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥
प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा ।
जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २॥
वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति ।
सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मकथनं वद मङ्गलकारणम् ॥ ४॥
श्रीनारायण उवाच ।
सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः ।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५॥
श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ ६॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधा धन्या तद्विरुद्धमतः शृणु ॥ ७॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ ८॥
तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् ।
ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९॥
मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु ।
जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ १०॥
कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् ।
पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम् ॥ १२॥
तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता पश्चाद् बभूव वसुधा मुने ॥ १३॥
प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा ।
आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ १४॥
आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता ।
प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ १५॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ १६॥
हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ १७॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ १८॥
पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः ।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९॥
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च ।
नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ २०॥
प्रलये प्राकृते चैव ब्रह्मणश्च निपातने ।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ २१॥
नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह ।
नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ २२॥
मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च ।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥ २३॥
तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः ।
नारद उवाच ।
पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ २४॥
वाराहे चैव वाराही सर्वैः सर्वाश्रया सती ।
मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ २५॥
तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः ।
मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ २६॥
श्रीनारायण उवाच ।
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ २७॥
जले तां स्थापयामास पद्मपत्रं यथा हृदे ।
तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ २८॥
दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः ।
वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ २९॥
कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् ।
क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३०॥