स्कन्ध 9, अध्याय 8: नारायणनारदसंवादे कलिमाहात्म्यवर्णनम्, Verse 1
९.८ अष्टमोऽध्यायः ।
नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १॥
Containing 111 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.८ अष्टमोऽध्यायः ।
नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १॥
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।
वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ २॥
सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते ।
हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ ३॥
सरस्वती नदी सा च तीर्थरूपातिपावनी ।
पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ ४॥
पश्चाद्भागीरथी नीता महीं भगीरथेन च ।
सा वै जगाम कलया वाणीशापेन नारद ॥ ५॥
तत्रैव समये तां च दधार शिरसा शिवः ।
वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ ६॥
पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७॥
ततोऽन्यया सा कलया लेभे जन्म च भारते ।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८॥
पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः ।
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९॥
कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते ।
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥ १०॥
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।
यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः ॥ ११॥
शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम् ॥ १२॥
साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे ।
वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ १३॥
देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् ।
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ १४॥
सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ १५॥
वामाचाररताः सर्वे मिथ्याकपटसंयुताः ।
तुलसीरहिता पूजा भविष्यति ततः परम् ॥ १६॥
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ।
चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १७॥
पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः ।
स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥ १८॥
सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ १९॥
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ २०॥
कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।
विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥ २१॥
यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः ।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २२॥
ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः ।
सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ २३॥
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च ॥ २४॥
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।
सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ २५॥
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ २६॥
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।
दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥ २७॥
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।
जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ २८॥
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥ २९॥
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।
कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥ ३०॥