स्कन्ध 9, अध्याय 7: गङ्गादीनां शापोद्धारवर्णनम्, Verse 1
९.७ सप्तमोऽध्यायः ।
गङ्गादीनां शापोद्धारवर्णनम् ।
श्रीनारायण उवाच ।
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.७ सप्तमोऽध्यायः ।
गङ्गादीनां शापोद्धारवर्णनम् ।
श्रीनारायण उवाच ।
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ १॥
ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ २॥
सरस्वत्युवाच ।
विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् ।
सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः ॥ ३॥
देहत्यागं करिष्यामि योगेन भारते ध्रुवम् ।
अत्युन्नतो हि नियतं पातुमर्हति निश्चितम् ॥ ४॥
गङ्गोवाच ।
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ ५॥
निर्दोषकामिनीत्यागं करोति यो नरो भुवि ।
स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा ॥ ६॥
पद्मोवाच ।
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा ॥ ७॥
भारते भारतीशापाद्यास्यामि कलया ह्यहम् ।
कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥ ८॥
दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् ।
केन तेन विमुक्ताहमागमिष्यामि ते पदम् ॥ ९॥
कलया तुलसीरूपं धर्मध्वजसुता सती ।
भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ १०॥
वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता ।
समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ ११॥
गङ्गा सरस्वतीशापाद्यदि यास्यति भारते ।
शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥ १२॥
गङ्गाशापेन वा वाणी यदि यास्यति भारतम् ।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ १३॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ १४॥
इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा ।
स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥ १५॥
(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥
) ॥
श्रीभगवानुवाच ।
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।
समतां च करिष्यामि शृणु त्वं कमलेक्षणे ॥ १६॥
भारती यातु कलया सरिद्रूपा च भारते ।
अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ १७॥
भगीरथेन सा नीता गङ्गा यास्यति भारते ।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ १८॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥ १९॥
कलांशांशेन गच्छ त्वं भारते वामलोचने ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ २०॥
कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् ।
युष्माकं सरितां चैव मद्गेहे चागमिष्यथ ॥ २१॥
सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मभवे भवेत् ॥ २२॥
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।
युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ॥ २३॥
पृथिव्यां यानि तीर्थानि सन्त्यसङ्ख्यानि सुन्दरि ।
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ २४॥
मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते ।
पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम् ॥ २५॥
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ २६॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २७॥
एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः ।
नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २८॥
असिजीवी मसीजीवी धावको ग्रामयाचकः ।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २९॥