स्कन्ध 9, अध्याय 6: लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम्, Verse 1
९.६ षष्ठोऽध्यायः ।
लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलहात्कलया भारते सरित् ॥ १॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.६ षष्ठोऽध्यायः ।
लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलहात्कलया भारते सरित् ॥ १॥
पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी ।
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ २॥
तपस्विनां तपोरूपा तपसः फलरूपिणी ।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ३॥
ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि ।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ ४॥
भारते कृतपापश्च स्नात्वा तत्र च लीलया ।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ ५॥
चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये ।
व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ ६॥
अनुषङ्गेण यः स्नातो हेतुना श्रद्धयापि वा ।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ ७॥
सरस्वतीमनुं तत्र मासमेकं च यो जपेत् ।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥ ८॥
नित्यं सरस्वतीतोये यः स्नायान्मुण्डयन्नरः ।
न गर्भवासं कुरुते पुनरेव स मानवः ॥ ९॥
इत्येवं कथितं किञ्चिद्भारतीगुणकीर्तनम् ।
सुखदं कामदं सारं भूयः किं श्रोतुमिच्छसि ॥ १०॥
सूत उवाच ।
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।
पुनः पप्रच्छ सन्देहमिमं शौनक सत्वरम् ॥ ११॥
नारद उवाच ।
कथं सरस्वती देवी गङ्गाशापेन भारते ।
कलया कलहेनैव बभूव पुण्यदा सरित् ॥ १२॥
श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम ।
कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते ॥ १३॥
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।
सा तु सत्त्वस्वरूपा या पुण्यदा शुभदा सदा ॥ १४॥
तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ १५॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।
यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥ १६॥
लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ १७॥
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् ।
सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ १८॥
विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा ।
क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती ॥ १९॥
बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता ।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ २०॥
उवाच वाणी भर्तारं रक्तास्या रक्तलोचना ।
कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा ॥ २१॥
सरस्वत्युवाच ।
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति ।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२॥
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ।
कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥ २३॥
गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता ।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ २४॥
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।
निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥ २५॥
त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः ।
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥ २६॥
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।
मनसा च समालोच्य स जगाम बहिः सभाम् ॥ २७॥
गते नारायणे गङ्गामुवाच निर्भयं रुषा ।
वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥ २८॥
हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् ।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ २९॥
मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ ।
किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे ॥ ३०॥