स्कन्ध 9, अध्याय 4: सरस्वतीस्तोत्रपूजाकवचादिवर्णनम्, Verse 1
९.४ चतुर्थोऽध्यायः ।
सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् ।
अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १॥
Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.४ चतुर्थोऽध्यायः ।
सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् ।
अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता ।
केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ २॥
तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् ।
काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३॥
श्रीनारायण उवाच ।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४॥
आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः ।
सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ ५॥
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।
सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ ६॥
काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका ।
तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७॥
सङ्क्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् ।
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ८॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।
तद्वत्पश्चात्प्रवक्ष्यामि सङ्क्षेपक्रमतः शृणु ॥ ९॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ १०॥
आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः ।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ ११॥
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।
तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ १२॥
श्रीकृष्ण उवाच ।
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १३॥
कामज्ञं कामिनीनां च तासां च कामपूरकम् ।
कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम् ॥ १४॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ १५॥
यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः ।
कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १६॥
सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १७॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।
प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ १८॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ १९॥
लोभमोहकामक्रोधमानहिंसाविवर्जिता ।
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २०॥
तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति ।
गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ २१॥
प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् ।
माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ २२॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।
वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ २३॥
मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि ।
भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ २४॥
कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।
जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ २५॥
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् ।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २६॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ २७॥
ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः ।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २८॥
सर्वे देवाश्च मुनयो नृपाश्च मानवादयः ।
बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ २९॥
नारद उवाच ।
पूजाविधानं कवचं ध्यानं चापि निरन्तरम् ।
पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ ३०॥