स्कन्ध 9, अध्याय 3: ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम्, Verse 1
९.३ तृतीयोऽध्यायः ।
ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।
श्रीनारायण उवाच ।
अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः ।
ततः स काले सहसा द्विधाभूतो बभूव ह ॥ १॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.३ तृतीयोऽध्यायः ।
ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।
श्रीनारायण उवाच ।
अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः ।
ततः स काले सहसा द्विधाभूतो बभूव ह ॥ १॥
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः ।
क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा ॥ २॥
पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः ।
ब्रह्माण्डासङ्ख्यनाथो यो ददर्शोर्ध्वमनाथवत् ॥ ३॥
स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट् ।
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ ॥ ४॥
तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः ।
आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः ॥ ५॥
प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च ।
अस्यापि तेषां सङ्ख्यां च कृष्णो वक्तुं न हि क्षमः ॥ ६॥
सङ्ख्या चेद्रजसामस्ति विश्वानां न कदाचन ।
ब्रह्मविष्णुशिवादीनां तथा सङ्ख्या न विद्यते ॥ ७॥
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।
पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ॥ ८॥
तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः ।
तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥ ९॥
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ।
सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता ॥ १०॥
ऊनपञ्चाशदुपद्वीपासङ्ख्यशैलवनान्विता ।
ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः ॥ ११॥
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम् ॥ १२॥
ततः परश्च स्वर्लोको जनलोकस्तथा परः ।
ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥ १३॥
ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः ।
एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च ॥ १४॥
तद्विनाशे विनाशश्च सर्वेषामेव नारद ।
जलबुद्बुदवत्सर्वं विश्वसङ्घमनित्यकम् ॥ १५॥
नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ ।
प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम् ॥ १६॥
एषां सङ्ख्यां न जानाति कृष्णोऽन्यस्यापि का कथा ।
प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ॥ १७॥
तिस्रः कोट्यः सुराणां च सङ्ख्या सर्वत्र पुत्रक ।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ॥ १८॥
भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ।
अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ॥ १९॥
डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन ।
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ॥ २०॥
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ।
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ॥ २१॥
नवीनजलदश्यामं द्विभुजं पीतवाससम् ।
सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम् ॥ २२॥
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ।
वरं तदा ददौ तस्मै वरेशः समयोचितम् ॥ २३॥
मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः ।
ब्रह्माण्डासङ्ख्यनिलयो भव वत्स लयावधि ॥ २४॥
निष्कामो निर्भयश्चैव सर्वेषां वरदो भव ।
जरामृत्युरोगशोकपीडादिवर्जितो भव ॥ २५॥
इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् ।
त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम् ॥ २६॥
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।
वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥ २७॥
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः ।
श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते ॥ २८॥
प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः ।
तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै ॥ २९॥
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम् ॥ ३०॥