स्कन्ध 9, अध्याय 2: पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम्, Verse 1
९.२ द्वितीयोऽध्यायः ।
पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।
नारद उवाच ।
समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।
विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
९.२ द्वितीयोऽध्यायः ।
पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।
नारद उवाच ।
समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।
विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १॥
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।
कथं वा पञ्चधा भूता वद वेदविदांवर ॥ २॥
भूता ययांशकलया तया त्रिगुणया भवे ।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३॥
तासां जन्मानुकथनं पूजाध्यानविधिं बुध ।
स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम् ॥ ४॥
श्रीनारायण उवाच ।
नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा ।
विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५॥
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः ।
तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ ६॥
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।
विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ ८॥
न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना ।
सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ ९॥
ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च ।
तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ १०॥
ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः ।
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११॥
तया युक्तः सदात्मा च भगवांस्तेन कथ्यते ।
स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ १२॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।
वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ १३॥
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।
सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ १४॥
वदन्ति चैव ते कस्य तेजस्तेजस्विना विना ।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ १५॥
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ।
अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ १६॥
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।
नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ १७॥
शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् ।
मुक्ताच्छविविनिन्द्यैकदन्तपङ्क्तिमनोरमम् ॥ १८॥
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ १९॥
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ २०॥
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।
सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम् ॥ २१॥
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।
ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ २२॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ २३॥
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः ॥ २४॥
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५॥
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २६॥
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ २७॥
तां ददर्श महाकामी कामाधारां सनातनः ।
अतीव कमनीया च चारुपङ्कजसन्निभाम् ॥ २८॥
चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् ।
सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ २९॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।
पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ ३०॥